प्रयोगो यत्र यज्ञानामुक्तो ब्राह्मणशेषतः ।
श्रौतकल्पः स विज्ञेयः स्मार्त्तकल्पस्तथेतरः ॥ ४२ ॥
अन्वयः—यत्र ब्राह्मणशेषतः यज्ञानां प्रयोगः उक्तः, सः श्रौतकल्पः विज्ञेयः, तथा इतर: स्मार्तकल्पः॥४२ ॥
व्याख्या—यत्र = यस्मिन् ग्रन्थे, ब्राह्मणशेषतः ब्राह्मणस्य = मन्त्रेतरवेदभागस्य, शेषतः = अवशिष्टभागात्, यज्ञानाम् = यागानाम्, प्रयोगः = व्यवहारः, उक्तः = कथितः, सः = एतत् ग्रन्थः, श्रौतकल्पः= यज्ञविधायकग्रन्थविशेषः, विज्ञेयः = ज्ञातव्यः, तथा इतरः = एतद्भिन्नः ग्रन्थः, स्मार्त्तकल्पः= स्मृतिसम्मतधर्मग्रन्थः उक्तः ॥ ४२ ॥
हिन्दी — जिसमें ब्राह्मणभाग के शेष अंश से यज्ञों का प्रयोग कहा गया है, उसे श्रौतकल्प कहते हैं, इससे भिन्न को स्मार्तकल्प कहते हैं ॥ ४२ ॥
प्रयोग इति । यत्र ब्राह्मणशेषतः ब्राह्मणस्य मन्त्रेतरवेदभागस्य शेषतः शेषांशात् यज्ञानां प्रयोगः उक्तः सः श्रौतकल्पः विज्ञेयः, तथा इतरः अन्यः स्मार्त्तकल्पः॥४२॥
В той (части) в которой было сказано об использовании ягьи (ритуала) из остальной части брахманов, это называют шраутакальпа, отдельную от нее называют смартакальпа.
Речь идет о Кальпе – одной из Веданг.