म्यरस्तजभ्रगैर्लान्तैः पद्यं यत्र प्रमाणतः ।
कल्प्यते छन्दःशास्त्रं तद् वेदानां पादरूपधृक् ।। ४६ ।।
अन्वयः—म्यरस्तजभ्रगैर्लान्तैः पद्यं यत्र प्रमाणतः यत्र पद्यं कल्प्यते, तत् छन्दःशास्त्रं, तच्च वेदानां पादरूपधृक् ॥ ४६ ॥
व्याख्या – मः = त्रिगुरुः, यः = आदिगुरुः, रः = लघुमध्यः, सः = अन्तगुरुः, तः = अन्तलघुः,
जः= गुरुमध्यः, मः= आदिगुरुः नः = त्रिलघुः, गः – गुरुः, लः = लघुः, एभिः प्रमाणतः == परिमाणैः,
यत्र = यस्मिन्, पद्यम् = श्लोकः, काव्यं वा, कल्प्यते = कल्पनां क्रियते, तत् छन्दःशास्त्रम्= वृत्तव्यवस्थापकशास्त्रम्,तच्च, वेदानाम् = श्रुतीनाम्, पादरूपधृक् = चरणव्यवस्थापकमिति ॥४६ ॥हिन्दी—–जिसमें मगण (तीन गुरु ऽऽऽ), यगण (आदिलघु ।ऽऽ), रगण ( मध्यलघु ऽ । ऽ), सगण (अन्तगुरु ॥ऽ), तगण ( अन्तलघु ऽऽ ।), जगण (गुरुमध्य ।ऽ ।), भगण (आदिगुरु ऽ ।।), नगण (तीनों लघु ॥।), गुरु (ऽ) तथा (।)– इनके प्रमाण से पद्यों की कल्पना की गई हो, उसे वेदों के चरण की व्यवस्था करने वाला ‘छन्द: शास्त्र’ कहते हैं ।
म्यरस्तजभ्रगैरिति। मस्त्रिगुरुः, यः आदिगुरुः, रः लघुमध्यः सः अन्तगुरु, तः अन्तलघुः, जः गुरुमध्यः, भः आदिगुरुः, नः त्रिलघुः, गः गुरु;, लः लघुः एभिः प्रमाणतः परिमाणैः यत्र पद्यं कल्प्यते, तत् छन्दःशाखं तच्च वेदानां पादरूपधृक् चरणव्यवस्थापकमित्यर्थः ॥ ४६ ॥
Та в которой говорится о стихотворных размерах (मगण (तीन गुरु ऽऽऽ), यगण (आदिलघु ।ऽऽ), रगण ( मध्यलघु ऽ । ऽ), सगण (अन्तगुरु ॥ऽ), तगण ( अन्तलघु ऽऽ ।), जगण (गुरुमध्य ।ऽ ।), भगण (आदिगुरु ऽ ।।), नगण (तीनों लघु ॥।), गुरु (ऽ) तथा (।)) и о том, как они используются в Ведах называется Чханда шастра (одна из 6 веданг)