Шукра нити 70

अन्वयः—अनेकासनसन्धानैः रते: ज्ञानं कला स्मृता । एतद्धि कलासप्तकं गान्धर्वे समुदाहृतम् ॥७० ॥
व्याख्या—अनेकैः– बहुविधैः आसनैः = उपवेशनप्रकारैः, रतेः = मैथुनक्रियायाः, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा एतत् = पूर्वोक्तम्, कलानाम् = रतिकलानाम्, सप्तकम् = सप्तविधम्, गान्धर्वे = गन्धर्ववेदे, समुदाहृतम् = सम्यक्प्रकारेणोदाहृतम् ॥ ७० ॥

हिन्दी – आसन बदल कर संभोग करने की क्रिया को भी कला कहते हैं । इन सात प्रकार की रतिक्रिया का वर्णन उदाहरण के साथ गान्धर्ववेद में किया गया है ॥ ७० ॥

अनेकेति । अनेकैः विविधैः आसनैः सन्धानैश्च रतेः सुरतस्य ज्ञानं कला स्मृता । एतत् उक्तरूपं कलानां सप्तकं गान्धर्वे गान्धर्ववेदे समुदाहृतं हि, हिशब्दोऽवधारणार्थः ॥ ७० ॥

Занятия любовью с изменением позы также называют искусством. Эти семь видов ратикрии( रति — удовольствие) описаны в Гандхарваведе с примерами.

Loading

Прокрутить вверх