शस्त्रसन्धानविक्षेपः पदादिन्यासतः कला ।
सन्ध्याघाताकृष्टिभेदैर्मल्लयुद्धं कला स्मृता ।। ७६ ।।
अन्वयः—पदादिन्यासतः शस्त्रसन्धानविक्षेपः कला तथा सन्ध्याघाताकृष्टिभेदैः मल्लयुद्धं
कला ॥ ७६ ॥व्याख्या—पदादीनाम् = चरणादीनाम्, न्यासतः = स्थापनक्रमेण, शस्त्राणाम् = आयुधानाम्, सन्धानम् = संयोजनम्, कला, तथा सन्धिषु = सन्धिस्थलेषु, ये आघाताः = आक्रमणम्, प्रक्षेपो वा, आकृष्टयः= आकर्षणानि, च, तेषां भेदैः = प्रकारैः, यत् मल्लयुद्धम् = नियुद्धमपि, कला, स्मृता = ख्याता ॥ ७६ ॥
हिन्दी—पैंतरे बदलते हुए निशाने साध कर हथियार चलाने की क्रिया को कला कहते हैं तथा अनेक दाव-पेंचों के साथ सन्धिस्थल पर चोट कर और खींच कर कुश्ती लड़ना भी कला है ॥ ७६ ॥
शस्त्रेति । पदादीनां न्यासतः विन्यासक्रमेण शस्त्राणां सन्धानं सम्यक् लक्ष्यीकरणं विक्षेपश्च कला। तथा सन्धिषु स्थानविशेषेषु ये आघाताः प्रहारा: आकृष्टयः आकर्षणानि च तेषां भेदैः यत् मल्लयुद्धं मल्लयोः वीरयोः युद्धं परस्परसङ्ग्रामः तत् कला स्मृता॥७६ ॥
Маневры использования оружия называется искусством, и борьба путем использования подсечек и захватов со множеством трюков также является искусством.