Шукра нити 81

अन्वयः—गजाश्वरथगत्या युद्धसंयोजनं कला । एतत् कलापञ्चकं हि धनुर्वेदागमे स्थितम् ॥ ८१ ॥
व्याख्या—गजानाम् = हस्तिनाम्, अश्वानाम् = घोटकानाम्, रथानाञ्च = स्यन्दनानाञ्च, गत्या = गतिविशेषेण, युद्धसंयोजनम् = रणनीतिनिर्धारणम्, कला = कलाख्येति । एतत् = पूर्वोक्तं सकलम्, कलापञ्चकम् = एषा पञ्चविधा कला, हि = यतः, धनुर्वेदागमे = धनुर्वेदशास्त्रे, स्थितम् = वर्णितमस्ति ॥ ८१ ॥
हिन्दी—हाथी, घोड़े और रथ की चाल पर ध्यान रखते हुए रणनीति का निर्धारण करना भी एक कला है। ये पाँच कलाएँ धनुर्वेदशास्त्र में वर्णित हैं ॥ ८१ ॥
गजेति। गजानाम् अश्वानां रथानाञ्च गत्या गमनवैशष्टियेन युद्धसंयोजनं सङ्ग्रामायोजनं कला। एतत् कलापञ्चकं धनुर्वेदागमे धनुर्वेदशास्त्रे स्थितं हि, हिशब्दोऽवधारणार्थः॥ ८१ ॥

Определение стратегии, учитывая движения слона, лошади и колесницы, — это тоже искусство. Эти пять искусств описаны в Дханурведе Шастре.

Loading

Прокрутить вверх