मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया ।
पृथक् कलाचतुष्कं तु चित्राद्यालेखनं कला ॥ ८३ ॥
अन्वयः— मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया कला, चित्राद्यालेखनं कला । एतत्
कलाचतुष्कं तु पृथक् उक्तम् ॥ ८३ ॥
व्याख्या — मृत्तिकानां = मृदानाम्, काष्ठानाम् = दारूणाम्, पाषाणानाम् = प्रस्तराणाम्, धातूनाञ्च = खनिजानाञ्च, ये भाण्डादयः = पात्रादयः, सत्क्रिया= सुष्ठुरूपेण तेषां रचना, तत् कलेति, तथा चित्रादीनाम् = आलेख्यादीनाम्, आलेखनम् = चित्राङ्कनम्, कला । एतत् = पूर्वोक्तम्, चतुष्कम् = चतुःप्रकारकम्, कला, पृथक् = अन्यत्, उक्तम् ॥ ८३ ॥हिन्दी – मिट्टी, काठ, पत्थर और धातु के बर्तन आदि को सुन्दर ढंग से बनाना भी कला तथा चित्र बनाना भी कला ही है । ये अलग से चार कलाएँ हैं ॥८३॥
मृत्तिकेति। मृत्तिकानां काष्ठानां पाषाणानां धातूनाञ्च ये भाण्डादयः तेषां सक्रिया सुनिर्माणं कला। तथा चित्रादीनाम् आलेखनं सम्यक् लेखनं कला । एतत् कलाचतुष्कं पृथक् उक्तमिति शेषः ॥ ८३ ॥
Красиво изготавливать глиняную, деревянную, каменную и металлическую посуду (भाण्डा) и иже с ней— это тоже искусство, живопись — тоже искусство. Это четыре разных искусства.