Шукра нити 84

अन्वयः—तडागवापीप्रासादसमभूमिक्रिया कला । तथा घट्याद्यनेकयन्त्राणां वाद्यानां तु कृतिः
कला ॥ ८४ ॥
व्याख्या—तडागानाम् = सरोवराणाम्, वापीनाम् = वापिकानाम्, प्रासादानाम् =राजभवनानाम्, समभूमीनाञ्च — भूम्याः = पृथिव्याः, समानीकरणस्य क्रिया कलेति, तथा घट्यादीनाम् = समयनिरूपकादीनाम्, अनेकेषाम् = विविधानाम्, यन्त्राणाम्, वाद्यानाम् = वादनयन्त्राणाञ्च, कृतिः= क्रिया, कलेति ॥ ८४ ॥

हिन्दी – तालाब, बावड़ी, राजभवन तथा धरती को समतल बनाने की क्रिया भी एक कला है। घड़ी बनाने की क्रिया भी एक कला ही है और विविध बाजे बनाना भी कला ही है ॥ ८४ ॥

तडागेति । तडागानां सरसां वापीनां दीर्घिकाणां प्रासादानां हर्म्याणां समभूमीनाञ्च क्रिया करणं कला । तथा घट्यादीनां समयनिरूपकादीनाम् अनेकेषां विविधानां यन्त्राणां वाद्यानाञ्च कृतिः निर्माणं
कला ॥ ८४ ॥

Процесс создания пруда, ступенчатого колодца, царского дворца и земли также является искусством. Изготовление часов — тоже искусство, и изготовление различных музыкальных инструментов — тоже искусство.

Loading

Прокрутить вверх