हीनमध्यादिसंयोगवर्णाद्यै रञ्जनं कला ।
जलवाय्वग्निसंयोगनिरोधैश्च क्रिया कला ।। ८५ ।।
अन्वयः—हीनमध्यादिसंयोगवर्णाद्यैः रञ्जनं कला । जलवाय्वग्निसंयोगनिरोधैः क्रिया कला ॥ ८५ ॥
व्याख्या—हीनमध्यादयः= मन्दमध्यादिकाः, संयोगाः = संश्लेषाः येषाम्, तैः वर्णाद्यैः = रागाद्यैः, रञ्जनम् = चित्राङ्कनमपि, कला । तथा जलानाम् = सलिलानाम्, वायूनाम् = पवनानाम्, अग्नीनाञ्च = वह्नीनाञ्च, संयोगैः = सम्मिश्रणैः, निरोधैश्च = अवरोधैश्च, या क्रिया = या बाष्पीययन्त्रेण कृत्यसम्पादनमपि कला एवेति ॥ ८५ ॥
हिन्दी – हलका, गाढ़ा या सामान्य रंग मिला कर कपड़े रंगने का काम भी कला तथा आग, पानी और हवा के संयोग और निरोध से वाष्पयंत्र द्वारा काम करना भी कला है ॥ ८५ ॥
हीनेति । हीनमध्यादयः अल्पमध्योत्तमाः संयोगाः येषां तैः वर्णाद्यैः रञ्जनं वस्त्रादीनामिति शेषः कला। तथा जलानां वायूनाम् अग्नीनाञ्च संयोगैः निरोधैश्च या क्रिया वाष्पीयन्त्रेण कार्य्यकरणं सा कला ॥ ८५ ॥
Работа по окрашиванию одежды путем смешивания светлых, густых или обычных цветов также является искусством, и работа с паровой машиной (водогреем) в сочетании с управление огнем, водой и воздухом также является искусством.