तिलमांसादिस्नेहानां कला निष्कासने कृतिः ।
सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणे कला ॥ ९३ ॥
अन्वयः—तिलमांसादिस्नेहानां निष्कासने कृतिः सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणे
कला ॥ ९३ ॥व्याख्या–तिलानाम् = जटुलानाम्, मांसादीनाम् = पिशितादीनाम्, च ये स्नेहाः = तैलानि, तेषाम्, निष्कासने = बहिष्करणे, या कृतिः = क्रिया, सापि कला । किञ्च सीरादीनाम् = गोदारणादीनाम्, आकर्षणे = आलेखने, वृक्षादीनाम् = तरूणाम्, आरोहणे = उपरिगमने, यत् ज्ञानम् = बोधः, सा कलेति ॥९३॥
हिन्दी – तिल और मांस से तेल निकालने की क्रिया भी कला है । हल चलाना और पेड़ पर चढना भी एक कला है ॥ ९३ ॥
तिलेति । तिलानां मांसादीनाञ्च ये स्नेहा: तैलानि तेषां निष्कासने बहिष्करणे कृतिः कला । किञ्च सीरादीनां लाङ्गलादीनाम् आकर्षणे तथा वृक्षादीनाम् आरोहणे ज्ञानं कला ॥९३॥
Процесс извлечения масла из кунжута и мяса (и подобных субстанций) также является искусством. Вспашка (использование плуга) и лазание по деревьям тоже искусство