Шукра нити 94

अन्वयः–मनोऽनुकूलसेवायाः कृतौ ज्ञानं कला स्मृता । तथा वेणुतृणादिपात्राणां कृतिज्ञानं
कला स्मृता ॥ ९४ ॥
व्याख्या–मनोऽनुकूलायाः= चित्तानुसारिण्याः, सेवायाः = परिचर्यायाः, कृतौ = निष्पादने, ज्ञानम् = बोधः, कलेति । तथा वेणूनाम् = वंशानाम्, तृणादीनाञ्च = घासादीनाञ्च, यानि पात्राणि तेषां कृतौ = करणे, ज्ञानम्, कला स्मृता = कथिता ॥ ९४ ॥

हिन्दी–मनोनुकूल सेवा करने की क्रिया जानना भी कला है । बाँस एवं घास की टोकरी बनाना भी कला ही है ॥ ९४ ॥

मन इति। मनोऽनुकूलायाः चित्तानुसारिण्याः सेवायाः परिचर्य्यायाः कृतौ अनुष्ठाने ज्ञानं कला स्मृता । तथा वेणूनां वंशानां तृणादीनाञ्च यानि पात्राणि तेषां कृतौ करणे ज्ञानं कला स्मृता ॥ ९४ ॥

Знание процесса искреннего служения также является искусством. Изготовление корзин из бамбука и травы также является искусством.

Loading

Прокрутить вверх