Шукра нити 100

इति शुक्रनीतौ चतुर्थाध्यायस्य राष्ट्रे आद्यं विद्याकलानिरूपणं नाम तृतीयं प्रकरणम् ।
अन्वयः—एताः चतुःषष्टिकलाः सङ्क्षेपेण निदर्शिताः । यः मानवः यां यां कलां समाश्रित्य निपुणः हि स एव हि सम्यक् नैपुण्यकरणे तां तां कुर्यात् ॥ १०० ॥
व्याख्या – एताः = पूर्वोक्ताः, चतुःषष्टिः– चतुरधिकषष्टिः,कलाः = शिल्पविद्याः, सङ्क्षेपेण = समासेन, निदर्शिताः = कथिताः । यो मानवः = यो हि पुरुषः, यां यां कलाम् = यां यां शिल्पविद्याम्, आश्रित्य = अवलम्ब्य, निपुणः = कुशलः, हि = निश्चितम्, सः = असौ, एव हि सम्यक् = सुष्ठुतया, नैपुण्यकरणे = कुशलताप्राप्त्यर्थम्, तां तां कलाम् = शिल्पविद्याम्, कुर्यात् = सर्वथा अभ्यसेत् ॥ १०० ॥
हिन्दी—संक्षेप में चौसठ कलाएँ कही गई हैं। इनमें जिन कलाओं का आश्रय लेकर मनुष्य निपुणता प्राप्त करता है, उसे उन्हीं कलाओं का सदा अभ्यास कर उनमें दक्षता प्राप्त करनी चाहिए ॥ १०० ॥
इस प्रकार शुक्रनीति में चतुर्थ अध्याय में ‘विद्याकलानिरूपण’ नामक तृतीय प्रकरण की ‘विमला’ संस्कृत-हिन्दी व्याख्या समाप्त हुई ।

Резюмируя, есть шестьдесят четыре искусства. Совершенствуясь в этих искусствах, человек достигает мастерства( मनुष्य निपुणता), он должен всегда практиковать эти искусства и достигать в них совершенства.

Loading

Прокрутить вверх