Перевод шастр

Чанакья нити 1.13

यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते ।ध्रुवाणि तस्य नश्यन्ति चाध्रुवं नष्टमेव हि ॥ ०१-१३ जो निश्चित को छोड़कर अनिश्चित का सहारा लेता है,उसका निश्चित भी नष्ट हो जाता है। अनिश्चित तो स्वयं नष्ट होता ही है। Тот, кто отказывается от достоверного (дословно — устойчивая речь) и прибегает к неопределенному,Его устойчивость также разрушается. Неустойчивое разрушается само собой.

Loading

Чанакья нити 1.13 Читать дальше »

Шукра нити 100

चतुःषष्टिकला ह्येताः सङ्क्षेपेण निदर्शिताः ।यां यां कलां समाश्रित्य निपुणो यो हि मानवः ।नैपुण्यकरणे सम्यक् तां तां कुर्य्यात् स एव हि ।। १०० ।। इति शुक्रनीतौ चतुर्थाध्यायस्य राष्ट्रे आद्यं विद्याकलानिरूपणं नाम तृतीयं प्रकरणम् ।अन्वयः—एताः चतुःषष्टिकलाः सङ्क्षेपेण निदर्शिताः । यः मानवः यां यां कलां समाश्रित्य निपुणः हि स एव हि सम्यक् नैपुण्यकरणे तां तां कुर्यात् ॥ १००

Loading

Шукра нити 100 Читать дальше »

Шукра нити 99

आदानमाशुकारित्वं प्रतिदानं प्रतिदानं चिरक्रिया |कलासु द्वौ गुणा ज्ञेयौ द्वे कले परिकीर्त्तिते ॥ ९९ ॥ अन्वयः—कलासु आशुकारित्वम् आदानं, चिरक्रिया प्रतिदानं द्वौ गुणौ ज्ञेयौ, द्वे कले परिकीर्त्तिते ॥९९ ॥व्याख्या—कलासु = पूर्वोक्तासु विविधासु कलासु, आशुकारित्वं = शीघ्रकारित्वम्, आदानम् = स्वीकरणम्, चिरक्रिया = विलम्बेन कार्यकारित्वम्, प्रतिदानम् = प्रत्यर्पणम्, कलासु एतौ द्वौ, गुणौ = धर्मों, ज्ञेयौ = ज्ञातव्यौ, तस्मात् द्वे =

Loading

Шукра нити 99 Читать дальше »

Шукра нити 98

नानादेशीयवर्णानां सुसम्यग् लेखने कला ।ताम्बूलरक्षादिकृतिविज्ञानन्तु कला स्मृता ॥ ९८ ॥ अन्वयःनानादेशीयवर्णानां सुसम्यग् लेखने कला । तथा ताम्बूलरक्षादिकृतिविज्ञानं कला स्मृता ॥ ९८ ॥व्याख्या— नानादेशीयानाम् = विविधजनपदीयानाम्, वर्णानाम् = अक्षराणाम्, सुसम्यक् = सुष्ठुतया, लेखनम् = अङ्कनम्, कला भवति । तथा ताम्बूलानाम् = नागवल्लीदलानाम्, रक्षादौ- संरक्षणे, या कृतिः= क्रिया, तस्य विज्ञानम् = विशिष्टज्ञानम्, कला स्मृता = कथितेति ॥

Loading

Шукра нити 98 Читать дальше »

Шукра нити 97

शिशोः संरक्षणे ज्ञानं धारणे क्रीडने कला ।सुयुक्तताडनज्ञानमपराधिजने कला ।। ९७ ।। अन्वयः–शिशोः संरक्षणे क्रीडने च ज्ञानं कला । तथा अपराधिजने सुयुक्तताडनज्ञानं कला ॥ ९७ ॥व्याख्या—शिशोः– बालकस्य, संरक्षणे = रक्षाकरणे, क्रीडने = खेलने च, यत् ज्ञानम्= बोधः, सोऽपि कला, तथा अपराधिजने = दोषीजने, सुयुक्तम् = यथोपयुक्तम्, ताडनम् = हननं, तस्योचितं ज्ञानम् = बोधः, अपि कला भवति

Loading

Шукра нити 97 Читать дальше »

Шукра нити 96

लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला स्मृता ।गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ।। ९६ ।। अन्वयः—लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला । गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ॥ ९६ ॥व्याख्या—लोहाः= अयस्काः, अभिसाराः = उपादानानि येषां तादृशानाम्, शस्त्राणाम् = आयुधानाम्, अस्त्राणाम् = प्रहरणानाम्, कृतौ = करणे, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा गजानाम् = हस्तिनाम्, अश्वानाम् = हयानाम्, वृषभानाम् = बलीवर्दाणाम्, उष्ट्राणाम् = दीर्घ- वक्रग्रीवानाम्, पल्याणादीनाम्

Loading

Шукра нити 96 Читать дальше »

Шукра нити 95

काचपात्रादिकरणविज्ञानन्तु कला स्मृता ।संसेचनं संहरणं जलानां तु कला स्मृता ।। ९५ ।। अन्वयः—काचपात्रादीनां करणे विज्ञानं कला स्मृता । तथा जलानां संसेचनं संहरणं कला स्मृता ॥ ९५ ॥व्याख्या—काचपात्रादीनां = स्फटिक भाजनादीनां करणे = निर्माणे, विज्ञानम् = विशिष्ट- ज्ञानम्, कला स्मृता = कथिता । तथा जलानाम् = सलिलानाम्, संसेचनम् = सम्यगभ्युक्षणम्, संहरणम् = सङ्कोचनम्, ‘कला’ स्मृता = कथिता

Loading

Шукра нити 95 Читать дальше »

Шукра нити 94

मनोऽनुकूलसेवायाः कृतिज्ञानं कला स्मृता ।वेणुतृणादिपात्राणां कृतिज्ञानं कला स्मृता ।। ९४ ।। अन्वयः–मनोऽनुकूलसेवायाः कृतौ ज्ञानं कला स्मृता । तथा वेणुतृणादिपात्राणां कृतिज्ञानंकला स्मृता ॥ ९४ ॥व्याख्या–मनोऽनुकूलायाः= चित्तानुसारिण्याः, सेवायाः = परिचर्यायाः, कृतौ = निष्पादने, ज्ञानम् = बोधः, कलेति । तथा वेणूनाम् = वंशानाम्, तृणादीनाञ्च = घासादीनाञ्च, यानि पात्राणि तेषां कृतौ = करणे, ज्ञानम्, कला स्मृता = कथिता ॥

Loading

Шукра нити 94 Читать дальше »

Шукра нити 93

तिलमांसादिस्नेहानां कला निष्कासने कृतिः ।सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणे कला ॥ ९३ ॥ अन्वयः—तिलमांसादिस्नेहानां निष्कासने कृतिः सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणेकला ॥ ९३ ॥ व्याख्या–तिलानाम् = जटुलानाम्, मांसादीनाम् = पिशितादीनाम्, च ये स्नेहाः = तैलानि, तेषाम्, निष्कासने = बहिष्करणे, या कृतिः = क्रिया, सापि कला । किञ्च सीरादीनाम् = गोदारणादीनाम्, आकर्षणे = आलेखने, वृक्षादीनाम् = तरूणाम्, आरोहणे = उपरिगमने,

Loading

Шукра нити 93 Читать дальше »

Шукра нити 92

मार्जने गृहभाण्डादेर्विज्ञानन्तु कला स्मृता ।वस्त्रसम्मार्जनञ्चैव क्षुरकर्म कले ह्युभे॥ ९२ ॥ अन्वयः—गृहभाण्डादेः मार्जने विज्ञानं तु कला स्मृता । वस्त्रसम्मार्जनं क्षुरकर्म च उभे हि कले ॥९२॥भाण्डादेः= प्रयुक्तपात्रादेः,व्याख्या– गृहाणाम् = सदनानाम्, मार्जने = परिष्करणे, यद्विज्ञानम् = विशिष्टज्ञानम् तु, कला, स्मृता = कथिता । वस्त्रसम्मार्जनम् = वसनादिप्रक्षालनम्, तथा, क्षुरकर्म = केशकर्तनादिकम् च एते, उभे = द्वे, हीति निश्चयेन, कलेति

Loading

Шукра нити 92 Читать дальше »

Шукра нити 91

सीवने कञ्चकादीनां विज्ञानन्तु कलात्मकम् ।बाह्वादिभिश्च तरणं कलासंज्ञं जले स्मृतम् ॥ ९१ ॥ अन्वयः—कञ्चुकादीनां सीवने विज्ञानं कलात्मकं जले बाह्वादिभिः तरणं कलासंज्ञं स्मृतम् ॥ ९१ ॥व्याख्या—कञ्चुकादीनाम् = लम्बाङ्गिकादीनाम्, सीवने = सूचीकर्मणि, विज्ञानम् = विशिष्ट- ज्ञानम्, कलात्मकम् = कलासंज्ञकम्, तथा, जने = सलिले, बाह्वादिभिः = दोर्दण्डादिभिः, तरणम् = सन्तरणम्, कलासंज्ञम् = कलानाम, इति, स्मृतम् = कथितम् ॥ ९१

Loading

Шукра нити 91 Читать дальше »

Шукра нити 90

पशुचर्माङ्गनिर्हारक्रियाज्ञानं कला स्मृता ।दुग्धदोहादिविज्ञानं घृतान्तन्तु कला स्मृता॥९०॥ अन्वयः— पशुचर्मणाम् अङ्गेभ्यः निर्हारस्य क्रियायां ज्ञानं कला । दुग्धदोहादीनां घृतान्तं विज्ञानं कला स्मृता ॥ ९० ॥व्याख्या— पशुचर्मणाम् = अजिनानाम् अङ्गेभ्यः = पशुशरीरावयवेभ्यः, निर्हारस्य = निष्कासनस्य, क्रियायाम् = कृतौ, ज्ञानम् = बोधः, कला, स्मृता = कथिता । दुग्धदोहादीनाम् = गवादिदुग्धदोहनादीनाम्, घृतान्तम् = दुग्धात् घृतनिष्कासनपर्यन्तम्, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता =

Loading

Шукра нити 90 Читать дальше »

Шукра нити 89

स्वर्णाद्यलङ्कारकृतिः कला लेपादिसत्कृतिः ।मार्दवादिक्रियाज्ञानं चर्मणान्तु कला स्मृता ॥ ८९ ॥ अन्वयः — स्वर्णाद्यलङ्कारकृति: लेपादिसत्कृतिः कला । चर्मणां मार्दवादिक्रियाज्ञानं कला स्मृता ॥ ८९ ॥ व्याख्या – स्वर्णादीनाम् = सुवर्णप्रभृतीनां धातूनाम्, अलङ्कारकृतिः = आभूषणनिर्माणम्, लेपादिसत्कृतिः= तदुपरिप्रलेपनकृत्यम्, कला । चर्मणाम् = अजिनानाम्, मार्दवादीनाम् = कोमलीकरणादीनाम्, क्रिया = कृतिः (The art of converting row ride in to Leather or

Loading

Шукра нити 89 Читать дальше »

Шукра нити 88

स्वर्णादीनान्तु याथात्म्यविज्ञानञ्च कला स्मृता ।कृत्रिमस्वर्णरत्नादिक्रियाज्ञानं कला स्मृता ॥ ८८ ॥ अन्वयः—स्वर्णादीनां याथात्म्यविज्ञानं कला स्मृता । कृत्रिमस्वर्णरत्नादिक्रियाज्ञानं कलास्मृता ॥ ८८ ॥व्याख्या— स्वर्णादीनाम् = कनकप्रभृतीनाम्, याथात्म्यस्य = = यथार्थस्वरूपस्य, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = कथिता । तथा कृत्रिमाणाम् = अनैसर्गिकानाम्, स्वर्णरत्नादीनाम् = सुवर्णमाणिक्यादीनाम्, क्रियाज्ञानम् = रचनाकौशलम्, कला, स्मृता = कथिता ॥ ८८ ॥हिन्दी — सुवर्णादि धातुओं

Loading

Шукра нити 88 Читать дальше »

Шукра нити 87

अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता । वेधादिसदसज्ज्ञानं रत्नानाञ्च कला स्मृता ।। ८७ ।। अन्वयः—अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता । रत्नानाञ्च वेधादिसदसज्ज्ञानं कला स्मृता ॥ ८७ ॥ व्याख्या— अनेकेषाम् = विविधानाम्, तन्तूनाम् = सूत्राणाम्, संयोगैः = सम्मिश्रणैः, पटबन्धः —पटानाम् = वस्त्राणाम्, बन्धः = वयनमपि, कला, स्मृता = ख्यातेति । रत्नानाम् = मणीनाम्, वेधादिषु = छिद्रादिषु, सदसज्ज्ञानम् = उत्कृष्टापकृष्टत्वबोधः,

Loading

Шукра нити 87 Читать дальше »

Шукра нити 86

नौकारथादियानानां कृतिज्ञानं कला स्मृता । सूत्रादिरज्जुकरणविज्ञानन्तु कला स्मृता ॥ ८६ ॥ अन्वयः–नौकारथादियानानां कृतिज्ञानं कला स्मृता । सूत्रादिरज्जुकरणविज्ञानं तु कला स्मृता ॥ ८६ ॥ व्याख्या–नौकानाम् = तरणीनाम्, रथानाम् = स्यन्दनानाम्, यानादीनाम् = शकटादीनाम्, | कृतौ = रचनायाम्, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा सूत्रादीनाम् = तन्त्वादीनाम्,रज्जूनाञ्च = दाम्नाञ्च, करणे = निर्माणे, ज्ञानम् =

Loading

Шукра нити 86 Читать дальше »

Шукра нити 85

हीनमध्यादिसंयोगवर्णाद्यै रञ्जनं कला । जलवाय्वग्निसंयोगनिरोधैश्च क्रिया कला ।। ८५ ।। अन्वयः—हीनमध्यादिसंयोगवर्णाद्यैः रञ्जनं कला । जलवाय्वग्निसंयोगनिरोधैः क्रिया कला ॥ ८५ ॥ व्याख्या—हीनमध्यादयः= मन्दमध्यादिकाः, संयोगाः = संश्लेषाः येषाम्, तैः वर्णाद्यैः = रागाद्यैः, रञ्जनम् = चित्राङ्कनमपि, कला । तथा जलानाम् = सलिलानाम्, वायूनाम् = पवनानाम्, अग्नीनाञ्च = वह्नीनाञ्च, संयोगैः = सम्मिश्रणैः, निरोधैश्च = अवरोधैश्च, या क्रिया = या

Loading

Шукра нити 85 Читать дальше »

Шукра нити 84

तडागवापीप्रासादसमभूमिक्रिया कला ।घट्याद्यनेकयन्त्राणां वाद्यानान्तु कृतिः कला ॥ ८४ ॥ अन्वयः—तडागवापीप्रासादसमभूमिक्रिया कला । तथा घट्याद्यनेकयन्त्राणां वाद्यानां तु कृतिःकला ॥ ८४ ॥व्याख्या—तडागानाम् = सरोवराणाम्, वापीनाम् = वापिकानाम्, प्रासादानाम् =राजभवनानाम्, समभूमीनाञ्च — भूम्याः = पृथिव्याः, समानीकरणस्य क्रिया कलेति, तथा घट्यादीनाम् = समयनिरूपकादीनाम्, अनेकेषाम् = विविधानाम्, यन्त्राणाम्, वाद्यानाम् = वादनयन्त्राणाञ्च, कृतिः= क्रिया, कलेति ॥ ८४ ॥ हिन्दी — तालाब,

Loading

Шукра нити 84 Читать дальше »

Шукра нити 83

मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया ।पृथक् कलाचतुष्कं तु चित्राद्यालेखनं कला ॥ ८३ ॥ अन्वयः— मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया कला, चित्राद्यालेखनं कला । एतत्कलाचतुष्कं तु पृथक् उक्तम् ॥ ८३ ॥व्याख्या — मृत्तिकानां = मृदानाम्, काष्ठानाम् = दारूणाम्, पाषाणानाम् = प्रस्तराणाम्, धातूनाञ्च = खनिजानाञ्च, ये भाण्डादयः = पात्रादयः, सत्क्रिया= सुष्ठुरूपेण तेषां रचना, तत् कलेति, तथा चित्रादीनाम् = आलेख्यादीनाम्, आलेखनम् = चित्राङ्कनम्, कला । एतत्

Loading

Шукра нити 83 Читать дальше »

Шукра нити 82

विविधासनमुद्राभिर्देवतातोषणं कला । सारथ्यं च गजाश्वादेर्गतिशिक्षा कला स्मृता ।। ८२ ।। अन्वयः—विविधासनमुद्राभिः देवतातोषणं कला । सारथ्यं गजाश्वादेः च गतिशिक्षा कला स्मृता ॥ ८२ ॥ व्याख्या—विविधेन = अनेकप्रकारकेण, आसनेन = उपवेशनाधारेण, मुद्राभिः = शरीरा- वयवविन्यासैः, देवतानाम् = सुराणाम्, तोषणम् = प्रीणनम्, कला । तथा सारथ्यम् = रथसञ्चालनम्, “गजानाम् = करिणाम्, अश्वानाञ्च = हयानाञ्च, गतिशिक्षा = सञ्चालनबोधः,

Loading

Шукра нити 82 Читать дальше »

Шукра нити 81

गजाश्वरथगत्या तु युद्धसंयोजनं कला ।कलापञ्चकमेतद्धि धनुर्वेदागमे स्थितम् ॥ ८१ ॥ अन्वयः—गजाश्वरथगत्या युद्धसंयोजनं कला । एतत् कलापञ्चकं हि धनुर्वेदागमे स्थितम् ॥ ८१ ॥व्याख्या—गजानाम् = हस्तिनाम्, अश्वानाम् = घोटकानाम्, रथानाञ्च = स्यन्दनानाञ्च, गत्या = गतिविशेषेण, युद्धसंयोजनम् = रणनीतिनिर्धारणम्, कला = कलाख्येति । एतत् = पूर्वोक्तं सकलम्, कलापञ्चकम् = एषा पञ्चविधा कला, हि = यतः, धनुर्वेदागमे = धनुर्वेदशास्त्रे,

Loading

Шукра нити 81 Читать дальше »

Шукра нити 79-80

कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः ।सन्निपातावघातैश्च प्रमादोन्मथनैस्तथा ।कृतं निपीडनं ज्ञेयं तन्मुक्तिस्तु प्रतिक्रिया ॥ ७९॥कलाभिलक्षिते देशे यन्त्राद्यस्त्रनिपातनम् ।वाद्यसङ्केततो व्यूहरचनादि कला स्मृता ॥ ८० ॥ अन्वयः—कृतप्रतिकृतैः चित्रैः सुसङ्कटै: बाहुभिः सन्निपातावघातैश्च तथा प्रमादोन्मथनैः यत्कृतं तन्निपीडनं ज्ञेयम्। तन्मुक्तिस्तु प्रतिक्रिया सा कला। अभिलक्षिते देशे यन्त्राद्यस्त्रनिपातनं तथा वाद्यसङ्केततः व्यूहरचनादि कला स्मृता ॥ ७९-८० ॥ व्याख्या—कृतैः = बाहुभ्यां प्रहरणैः, प्रतिकृतैः = शत्रुकृतप्रहारावरोधनैः, चित्रैश्च = विविधैश्च,

Loading

Шукра нити 79-80 Читать дальше »

Шукра нити 78

बलदर्पविनाशान्तं नियुद्धं यशसे रिपोः ।न कस्यासीद्धि कुर्य्याद् वै प्राणान्तं बाहुयुद्धकम् ॥ ७८ ॥ अन्वयः — रिपोः बलदर्पविनाशान्तं नियुद्धं कस्य यशसे न आसीत् हि । अपितु प्राणान्तं बाहुयुद्धकं हि कुर्यात् ॥ ७८ ॥व्याख्या — रिपोः = अरे, बलदर्पयोः = सामर्थ्यगवयोः, विनाशान्तम् = विनाशपर्यन्तम्, नियुद्धम् = बाहुयुद्धम्, कस्य = कस्यापि जनस्य, यशसे = कीर्त्तये, न = नहि,

Loading

Шукра нити 78 Читать дальше »

Шукра нити 77

बाहुयुद्धन्तु मल्लानामशस्त्रं मुष्टिभिः स्मृतम् ।मृतस्य तस्य न स्वर्गो यशो नेहापि विद्यते ॥ ७७ ॥ अन्वयः–मल्लानाम् अशस्त्रं यत् बाहुयुद्धं तत् मुष्टिभिः स्मृतम् । तस्य मृतस्य स्वर्गः तथायशश्च इह न विद्यते ॥ ७७ ॥ व्याख्या–मल्लानाम् = बाहुयोद्धृणाम्, अशस्त्रम् = आयुधरहितम्, यत् बाहुयुद्धम् मल्लयुद्धम्, तत = तस्मिन् युद्धे, मुष्टिभिः = मुष्टिप्रहारैः, स्मृतम् = कथितम् । तत्र = तस्मिन्

Loading

Шукра нити 77 Читать дальше »

Шукра нити 76

शस्त्रसन्धानविक्षेपः पदादिन्यासतः कला ।सन्ध्याघाताकृष्टिभेदैर्मल्लयुद्धं कला स्मृता ।। ७६ ।। अन्वयः—पदादिन्यासतः शस्त्रसन्धानविक्षेपः कला तथा सन्ध्याघाताकृष्टिभेदैः मल्लयुद्धंकला ॥ ७६ ॥ व्याख्या—पदादीनाम् = चरणादीनाम्, न्यासतः = स्थापनक्रमेण, शस्त्राणाम् = आयुधानाम्, सन्धानम् = संयोजनम्, कला, तथा सन्धिषु = सन्धिस्थलेषु, ये आघाताः = आक्रमणम्, प्रक्षेपो वा, आकृष्टयः= आकर्षणानि, च, तेषां भेदैः = प्रकारैः, यत् मल्लयुद्धम् = नियुद्धमपि, कला, स्मृता =

Loading

Шукра нити 76 Читать дальше »

Шукра нити 75

संयोगापूर्वविज्ञानं धात्वादीनां कला स्मृता ।क्षारनिष्कासनज्ञानं कलासंज्ञन्तु तत् स्मृतम् ।कलादशकमेतद्धि ह्यायुर्वेदागमेषु च ॥ ७५ ।। अन्वयः—धात्वादीनां संयोगापूर्वविज्ञानं कला स्मृता । क्षारनिष्कासनं ज्ञानं कलासंज्ञं तु तत् स्मृतम्। एतत् हि कलादशकम् आयुर्वेदागमेषु च ॥ ७५ ॥ व्याख्या—धात्वादीनाम् = खनिजप्रभृतीनाम्, संयोगस्य = सम्मिश्रणस्य, अपूर्वम् = अभूत- पूर्वम्, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = कथिता । तथा क्षाराणाम् = लवणादीनाम्, निष्कासने

Loading

Шукра нити 75 Читать дальше »

Шукра нити 74

धात्वौषधीनां संयोगक्रियाज्ञानं कला स्मृता ।धातुसाङ्कर्य्यपार्थक्यकरणन्तु कला स्मृता ॥ ७४ ॥ अन्वयः—धात्वौषधीनां संयोगक्रियाज्ञानं कला स्मृता । धातुसाङ्कर्यपार्थक्यकरणं तु कला स्मृता ॥ ७४ ॥ व्याख्या—धातूनाम् = खनिजानाम्, औषधीनाम् = भैषज्यानाम्, संयोगस्य = सम्मिश्रणस्य, क्रियायाः= निष्पादनस्य, च, ज्ञानम् = बोधः, कला स्मृता । तथा धातूनाम् = अश्मभेदानाम्, साङ्कर्यात् = सम्मिश्रणात्, पार्थक्यकरणम् = भिन्नकरणम्, कला, स्मृता = कथिता ॥

Loading

Шукра нити 74 Читать дальше »

Шукра нити 72

हिङ्ग्वादिरससंयोगादन्नादिपचनं कला ।वृक्षादिप्रसवारोपपालनादिकृतिः कला ॥ ७२ ॥ अन्वयः — हिङ्ग्वादिरससंयोगात् अन्नादिपचनं कला । वृक्षादिप्रसवारोपपालनादिकृतिः कला ॥ ७२ ॥ व्याख्या–हिङ्ग्वादीनाम् = बाह्लीकादीनाम्, रससंयोगात् —रसानाम् = साराणाम्, संयोगात् सम्मिश्रणात्, अन्नादीनाम् = भोज्यपदार्थादीनाम्, पचनम् = पाककरणम्, कला । तथा = तेनैव प्रकारेण, वृक्षादीनाम् = तरुगुल्मप्रभृतीनाम्, प्रसवस्य = फलस्य, आरोपः= रोपणम्, तत्पालनादिश्च = संरक्षणादिकञ्च कलेति कथिता ॥ ७२ ॥

Loading

Шукра нити 72 Читать дальше »

Шукра нити 71

मकरन्दासवादीनां मद्यादीनां कृतिः कला ।शल्यगूढाहृतौ ज्ञानं शिराव्रणव्यधे कला ।। ७१ ।। अन्वयः—मकरन्दासवादीनां मद्यादीनां कृतिः कला । शल्यगूढाहृतौ ज्ञानं शिराव्रणव्यधेकला ॥ ७१ ॥ व्याख्या—मकरन्दः= प्रसूनरसः, तेन आसवादीनाम् = मदिरादीनाम्, मद्यादीनाम् = सुराप्रभृतीनाम्, कृतिः= निष्पादनम्, कला भवति । तथा शक्यस्य = कण्टकविद्धस्य, गूढम् = क्लेशरहितं मन्दम्, यथा तथा आहृतौ = निष्कासने, शिरासु व्रणानाम् = स्फोटकादीनाम्, व्यधे: विद्धकरणे

Loading

Шукра нити 71 Читать дальше »

Шукра нити 70

अनेकासनसन्धानै रतेर्ज्ञानं कला स्मृता ।कलासप्तकमेतद्धि गान्धर्वे समुदाहृतम् ॥ ७० ॥ अन्वयः—अनेकासनसन्धानैः रते: ज्ञानं कला स्मृता । एतद्धि कलासप्तकं गान्धर्वे समुदाहृतम् ॥७० ॥व्याख्या—अनेकैः– बहुविधैः आसनैः = उपवेशनप्रकारैः, रतेः = मैथुनक्रियायाः, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा एतत् = पूर्वोक्तम्, कलानाम् = रतिकलानाम्, सप्तकम् = सप्तविधम्, गान्धर्वे = गन्धर्ववेदे, समुदाहृतम् = सम्यक्प्रकारेणोदाहृतम् ॥ ७०

Loading

Шукра нити 70 Читать дальше »

Прокрутить вверх