культура Индии

Хинди и урду: в чем разница?

Хинди и урду – Сравнительное исследование двух языков Индии. Лингуа франка Северной Индии и Пакистана, хиндустани – индоарийский язык, происходящий от диалекта Дели, называемого кариболи. Он имеет две стандартизированные разновидности – Хинди и Урду. Эти два объединяющих языка соединяют северную Индию с Пакистаном и некоторыми частями Декана. Пока Хинди и Урду являются официальными языками Индии, урду является официальным языком в […]

Loading

Хинди и урду: в чем разница? Читать дальше »

Индийские языки: полезный справочник по всем языкам, на которых говорят в Индии.

От бизнеса до Болливуда, Индия — страна, наполненная культурой, историей и, наряду со всем этим, языками. Путешествуя по Индии, вы услышите множество языков и музыкальных диалектов. На самом деле может показаться, что вы слышите сотни. Вы не ошибетесь. Так сколько же существует индийских языков? Хотя в Индии 22 отдельных официальных языка , в общей сложности в ней

Loading

Индийские языки: полезный справочник по всем языкам, на которых говорят в Индии. Читать дальше »

Шукра нити 76

शस्त्रसन्धानविक्षेपः पदादिन्यासतः कला ।सन्ध्याघाताकृष्टिभेदैर्मल्लयुद्धं कला स्मृता ।। ७६ ।। अन्वयः—पदादिन्यासतः शस्त्रसन्धानविक्षेपः कला तथा सन्ध्याघाताकृष्टिभेदैः मल्लयुद्धंकला ॥ ७६ ॥ व्याख्या—पदादीनाम् = चरणादीनाम्, न्यासतः = स्थापनक्रमेण, शस्त्राणाम् = आयुधानाम्, सन्धानम् = संयोजनम्, कला, तथा सन्धिषु = सन्धिस्थलेषु, ये आघाताः = आक्रमणम्, प्रक्षेपो वा, आकृष्टयः= आकर्षणानि, च, तेषां भेदैः = प्रकारैः, यत् मल्लयुद्धम् = नियुद्धमपि, कला, स्मृता =

Loading

Шукра нити 76 Читать дальше »

Шукра нити 75

संयोगापूर्वविज्ञानं धात्वादीनां कला स्मृता ।क्षारनिष्कासनज्ञानं कलासंज्ञन्तु तत् स्मृतम् ।कलादशकमेतद्धि ह्यायुर्वेदागमेषु च ॥ ७५ ।। अन्वयः—धात्वादीनां संयोगापूर्वविज्ञानं कला स्मृता । क्षारनिष्कासनं ज्ञानं कलासंज्ञं तु तत् स्मृतम्। एतत् हि कलादशकम् आयुर्वेदागमेषु च ॥ ७५ ॥ व्याख्या—धात्वादीनाम् = खनिजप्रभृतीनाम्, संयोगस्य = सम्मिश्रणस्य, अपूर्वम् = अभूत- पूर्वम्, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = कथिता । तथा क्षाराणाम् = लवणादीनाम्, निष्कासने

Loading

Шукра нити 75 Читать дальше »

Шукра нити 74

धात्वौषधीनां संयोगक्रियाज्ञानं कला स्मृता ।धातुसाङ्कर्य्यपार्थक्यकरणन्तु कला स्मृता ॥ ७४ ॥ अन्वयः—धात्वौषधीनां संयोगक्रियाज्ञानं कला स्मृता । धातुसाङ्कर्यपार्थक्यकरणं तु कला स्मृता ॥ ७४ ॥ व्याख्या—धातूनाम् = खनिजानाम्, औषधीनाम् = भैषज्यानाम्, संयोगस्य = सम्मिश्रणस्य, क्रियायाः= निष्पादनस्य, च, ज्ञानम् = बोधः, कला स्मृता । तथा धातूनाम् = अश्मभेदानाम्, साङ्कर्यात् = सम्मिश्रणात्, पार्थक्यकरणम् = भिन्नकरणम्, कला, स्मृता = कथिता ॥

Loading

Шукра нити 74 Читать дальше »

Шукра нити 72

हिङ्ग्वादिरससंयोगादन्नादिपचनं कला ।वृक्षादिप्रसवारोपपालनादिकृतिः कला ॥ ७२ ॥ अन्वयः – हिङ्ग्वादिरससंयोगात् अन्नादिपचनं कला । वृक्षादिप्रसवारोपपालनादिकृतिः कला ॥ ७२ ॥ व्याख्या–हिङ्ग्वादीनाम् = बाह्लीकादीनाम्, रससंयोगात् —रसानाम् = साराणाम्, संयोगात् सम्मिश्रणात्, अन्नादीनाम् = भोज्यपदार्थादीनाम्, पचनम् = पाककरणम्, कला । तथा = तेनैव प्रकारेण, वृक्षादीनाम् = तरुगुल्मप्रभृतीनाम्, प्रसवस्य = फलस्य, आरोपः= रोपणम्, तत्पालनादिश्च = संरक्षणादिकञ्च कलेति कथिता ॥ ७२ ॥

Loading

Шукра нити 72 Читать дальше »

Шукра нити 71

मकरन्दासवादीनां मद्यादीनां कृतिः कला ।शल्यगूढाहृतौ ज्ञानं शिराव्रणव्यधे कला ।। ७१ ।। अन्वयः—मकरन्दासवादीनां मद्यादीनां कृतिः कला । शल्यगूढाहृतौ ज्ञानं शिराव्रणव्यधेकला ॥ ७१ ॥ व्याख्या—मकरन्दः= प्रसूनरसः, तेन आसवादीनाम् = मदिरादीनाम्, मद्यादीनाम् = सुराप्रभृतीनाम्, कृतिः= निष्पादनम्, कला भवति । तथा शक्यस्य = कण्टकविद्धस्य, गूढम् = क्लेशरहितं मन्दम्, यथा तथा आहृतौ = निष्कासने, शिरासु व्रणानाम् = स्फोटकादीनाम्, व्यधे: विद्धकरणे

Loading

Шукра нити 71 Читать дальше »

Шукра нити 70

अनेकासनसन्धानै रतेर्ज्ञानं कला स्मृता ।कलासप्तकमेतद्धि गान्धर्वे समुदाहृतम् ॥ ७० ॥ अन्वयः—अनेकासनसन्धानैः रते: ज्ञानं कला स्मृता । एतद्धि कलासप्तकं गान्धर्वे समुदाहृतम् ॥७० ॥व्याख्या—अनेकैः– बहुविधैः आसनैः = उपवेशनप्रकारैः, रतेः = मैथुनक्रियायाः, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा एतत् = पूर्वोक्तम्, कलानाम् = रतिकलानाम्, सप्तकम् = सप्तविधम्, गान्धर्वे = गन्धर्ववेदे, समुदाहृतम् = सम्यक्प्रकारेणोदाहृतम् ॥ ७०

Loading

Шукра нити 70 Читать дальше »

Шукра нити 69

शय्यास्तरणसंयोगपुष्पादिग्रथनं कला ।द्यूताद्यनेकक्रीडाभी रञ्जनं तु कला स्मृता ।। ६९ ।। अन्वयः— शय्यास्तरणसंयोगपुष्पादिग्रथनं कला स्मृता । तथा द्यूताद्यनेकक्रीडाभिः रञ्जनं कला स्मृता ॥ ६९ ॥ व्याख्या— शय्यानाम् = पर्यङ्कानाम्, आस्तरणानाम् = कुथानाम्, संयोगः = सम्यक्सम्पादनम्,पुष्पादीनाम् = प्रसूनादीनाम्, ग्रथनम् = सङ्ग्रन्थनम्, कला = शिल्पविद्या, स्मृता = कथिता । तथा—द्यूतादिभिः= कैतवादिभिः, अनेकाभिः = विविधाभिः, क्रीडाभिः = खेलनैः, रञ्जनम् =

Loading

Шукра нити 69 Читать дальше »

Шукра нити 68

वस्त्रालङ्कारसन्धानं स्त्रीपुंसोश्च कला स्मृता ।अनेकरूपाविर्भावकृतिज्ञानं कला स्मृता ॥ ६८ ॥ अन्वयः—स्त्रीपुंसोः वस्त्रालङ्कारसन्धानं कलाः स्मृता । अनेकरूपाविर्भावकृतिज्ञानं कलास्मृता ॥ ६८ ॥ व्याख्या — स्त्रीपुंसोः = नरनार्योः, वस्त्राणाम् = परिधानानाम्, अलङ्काराणाञ्च = आभूषणानाञ्च, सन्धानम् = संयोजनम्, कला = परिधानकलेति, स्मृता = ख्याता। तथा च, अनेकरूपाणाम् = विविधानां स्वरूपाणाम्, आविर्भावाणाम् = प्राकट्यानाम्, कृतौ = निष्पादने, ज्ञानम् = बोधः,

Loading

Шукра нити 68 Читать дальше »

Шукра нити 67

हावभावादिसंयुक्तं नर्त्तनं तु कला स्मृता ।अनेकवाद्यकरणे ज्ञानं तद्वादने कला ॥ ६७ ॥ अन्वयः—हावभावादिभिः संयुक्तं नर्तनं कला स्मृता । अनेकवाद्यकरणे ज्ञानं तत् वादनेकला ॥ ६७ ॥ व्याख्या–हावभावादिभिः = पुरुषमनोहारीस्त्रीचेष्टाभेदादिभिः, संयुक्तम् = समन्वितम्, नर्त्तनम् = नृत्यम्, कला = शिल्पविद्या, स्मृता = कथिता । अनेकेषाम् = विविधानाम्, वाद्यानाम्= वादित्राणाम्, करणे = सम्पादने, ज्ञानम् = बोधः, तेषां कला =

Loading

Шукра нити 67 Читать дальше »

Шукра нити 66

पृथक् पृथक् क्रियाभिर्हि कलाभेदस्तु जायते।यां यां कलां समाश्रित्य तन्नाम्ना जातिरुच्यते ॥ ६६ ॥ अन्वयः—पृथक् पृथक् क्रियाभिः कलाभेदस्तु जायते । यां यां कलां समाश्रित्य तन्नाम्ना जातिः उच्यते ॥ ६६ ॥व्याख्या—पृथक् पृथक् = विविधाभिः, क्रियाभिः = व्यापारैः, कलाभेदस्तु —कलानाम् = शिल्पानाम्, भेदः= भिन्नता, तु, जायते = भवति, यां यां कलाम् = शिल्पविद्याम्, समाश्रित्य = अवलम्ब्य, तन्नाम्ना = तत्तदाख्यया,

Loading

Шукра нити 66 Читать дальше »

Шукра нити 65

पृथक् पृथक् तु विद्यानां लक्षणं सम्प्रकाशितम् ।कलानां न पृथङ्नाम लक्ष्म चास्तीह केवलम् ।। ६५ ।। अन्वयः—विद्यानां पृथक् पृथक् लक्षणं सम्प्रकाशितम्, केवलं कलानां पृथक् नाम लक्ष्म इह न अस्ति ॥ ६५ ॥व्याख्या—विद्यानाम् = विज्ञानानाम्, पृथक् पृथक् = भिन्नं भिन्नम्, लक्षणम् = परिभाषा, सम्प्रकाशितम्—सम्यग्रूपेण प्रकाशितम् = कथितम्, केवलम् = मात्रम्, कलानाम् = शिल्प- विद्यानाम्, पृथक् = भिन्नम्, नाम

Loading

Шукра нити 65 Читать дальше »

Шукра нити 64

कल्पितश्रुतिमूलो वामूलो लोकैर्धृतः सदा ।देशादिधर्म्मः स ज्ञेयो देशे देशे कुले कुले ॥ ६४ ॥ अन्वयः – यः देशे देशे कुले कुले लोकैः कल्पिता श्रुतिमूलः वा अमूलः सदा धृतः सः देशादिधर्मः ज्ञेयः ॥ ६४॥ व्याख्या—यः= धर्मः, देशे देशे = प्रतिदेशम्, कुले कुले = प्रतिकुलम्, लोकैः= जनैः, कल्पिता = स्थापिता, श्रुतिमूलः – श्रुतिः = वेदः, मूलम् =

Loading

Шукра нити 64 Читать дальше »

Шукра нити 63

ईश्वरः कारणं यत्रादृश्योऽस्ति जगतः सदा।श्रुतिस्मृती विना धर्माधर्मौ स्तस्तच्च यावनम्।श्रुत्यादिभिन्नधर्मोऽस्ति यत्र तद् यावनं मतम् ॥ ६३ ॥ अन्वयः—यत्र सदा अदृश्यः ईश्वरः जगतः कारणम् अस्ति तथा श्रुतिस्मृती विना धर्माधर्मौ स्तः, तत् यावनम्। यत्र च श्रुत्यादिभिन्नः धर्मः अस्ति तत् यावनं मतम् ॥ ६३ ॥ व्याख्या — यत्र = यस्मिन् विचारे, सदा सर्वदा, अदृश्य: = अगोचरः, ईश्वरः = :- परमात्मा,

Loading

Шукра нити 63 Читать дальше »

Шукра нити 62

विना कौशिकशास्त्रीयसङ्केतैः कार्य्यसाधिका ।यथाकालोचिता वाग् वावसरोक्तिश्च सा स्मृता ।। ६२ ।। अन्वयः—कौशिकशास्त्रीयसङ्केतैः विना कार्यसाधिका यथाकालोचिता या वाक् साअवसरोक्तिः स्मृता ॥६२॥ व्याख्या–कौशिकैः= शब्दसङ्ग्राहकग्रन्थैःशास्त्रीयसङ्केतैः= शास्त्रविषयकाभिप्राय- व्यञ्जकचेष्टाभिः, विना = अन्तरेण, कार्यसाधिका = अभिप्रायव्यञ्जिका, यथाकालोचिता = समयानुसारिणी, या वाक् = वाणी, सा अवसरोक्तिः, स्मृता = कथिता ॥ ६२ ॥ हिन्दी – शब्दकोश एवं शास्त्रसम्मत अभिप्रायव्यञ्जक अर्थों के बिना ही

Loading

Шукра нити 62 Читать дальше »

Шукра нити 61

लोकसङ्केततोऽर्थानां सुग्रहा वाक् तु दैशिकी ॥ ६१ ॥ अन्वयः— लोकसङ्केततः अर्थानां सुग्रहा वाक् तु दैशिकी भवति ॥ ६१ ॥ व्याख्या— लोकसङ्केततः — लोकानाम् = जनानाम्, सङ्केततः = अभिप्रायव्यञ्जकचेष्टया, अर्थानाम् = शब्दाशयानाम् सुग्रहाः = सुष्ठुतया ग्राह्याः, वाक् = वाणी, तु, दैशिकी = देशभाषा भवति ॥ ६१ ॥ हिन्दी – लोगों के अभिप्रायव्यञ्जक चेष्टा से शब्दों के

Loading

Шукра нити 61 Читать дальше »

Шукра нити 58

प्रासादप्रतिमारामगृहवाप्यादिसत्कृतिः ।कथिता यत्र तच्छिल्पशास्त्रमुक्तं महर्षिभिः ।। ५८ ।। अन्वयः— यत्र प्रासादप्रतिमारामगृहवाप्यादिसत्कृतिः कथिता: महर्षिभिः, तत् शिल्पशास्त्रम् उक्तम् ॥ ५८ ॥व्याख्या—यत्र = यस्मिन् शास्त्रे, प्रासादानाम् = सौधानां, नृपसदनानां वा, प्रतिमानाम् = आलेख्यानाम्, मूर्तीनाञ्च, आरामगृहाणाम् = उपवनसदनानाम्, वाप्यादीनाम् = पुष्करादीनाम्, शुक्रनीति:सत्कृतिः= सुनिर्माणम्, कथिताः = उक्ताः, महर्षिभिः = मुनिभिः, तत् शिल्पशास्त्रम्, उक्तम् = कथितम् ॥ ५८ ॥ हिन्दी—–जिस शास्त्र में

Loading

Шукра нити 58 Читать дальше »

Шукра нити 55

युक्तिर्बलीयसी यत्र सर्वं स्वाभाविकं मतम् ।कस्यापि नेश्वरः कर्त्ता न वेदो नास्तिकं हि तत् ।। ५५ ।। अन्वयः—यत्र युक्तिर्बलीयसी, सर्वं स्वाभाविकं मतं कस्यापि कर्त्ता ईश्वरः न वेदश्च न, तत् नास्तिकाम् ॥ ५५ ॥ व्याख्या—यत्र = यस्मिन्सिद्धान्ते, युक्तिः = ऊहा, बलीयसी : अतिबलवती, सर्वम्= निखिलं वस्तु, स्वाभाविकम् = नैसर्गिकम्, मतम् = निष्पादितम्, कस्यापि = वस्तुनः, कर्त्ता =

Loading

Шукра нити 55 Читать дальше »

Шукра нити 54

वर्णादिधर्म्मस्मरणं यत्र वेदाविरोधकम् ।कीर्त्तनं चार्थशास्त्राणां स्मृतिः सा च प्रकीर्त्तिता ।। ५४ ।। अन्वयः—यत्र वेदाविरोधकं वर्णादिधर्मस्मरणं च अर्थशास्त्राणां कीर्त्तनं, सा स्मृतिः प्रकीर्त्तिताः ॥ ५४ ॥ व्याख्या—यत्र = यस्मिन् ग्रन्थे, वेदाविरोधकम् – वेदानाम् = श्रुतीनाम्, अविरोधकम् = अविसंवादः, वर्णादिधर्मस्मरणम् — वर्णादीनाम् = ब्राह्मणादीनाम्, आदिपदेनाश्रमादीनाञ्च धर्म = कर्त्तव्यस्य, स्मरणम् = अनुचिन्तनम्, च = पुनः, अर्थशास्त्राणाम् = धनप्राप्तिरक्षावृद्ध्युपाय- दर्शकं

Loading

Шукра нити 54 Читать дальше »

Шукра нити 53

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुचरितं यस्मिन् पुराणं तद् विकीर्त्तितम् ।। ५३ । अन्वयः – यस्मिन् सर्गः प्रतिसर्गः वंशः मन्वन्तराणि च तथा वंशानुचरितं तत् पुराणं विकीर्त्तितम् ॥ ५३ ॥ व्याख्या – यस्मिन् = ग्रन्थे, सर्गः = जगदुत्पत्तिः, प्रतिसर्गः = प्रलयः, वंशः = श्रीमतां कुलम्, मन्वन्तराणि = ब्रह्मादिनस्य चतुर्दशो भागः, वा, एकसप्ततिचतुर्युग्यात्मकः कालः, च = पुनः,

Loading

Шукра нити 53 Читать дальше »

Шукра нити 52

प्राग्वृत्तकथनं चैकराजकृत्यमिषादितः ।यस्मिन् स इतिहासः स्यात् पुरावृत्तः स एव हि ॥ ५२ ॥ अन्वयः– यस्मिन् एकराजकृत्यमिषादितः यत् प्राग्वृत्तस्य कथनं, सः इतिहासः स्यात् स एव हि पुरावृत्तः ॥ ५२ ॥ व्याख्या—यस्मिन् = गन्थे, एकराजस्य = एकस्य राज्ञः कृत्यस्य = कर्मणः, मिषात् = व्यपदेशात्,इतः यत्प्राग्वृत्तस्य = पूर्ववृत्तान्तस्य, कथनम् = ख्यापनम्, सः इतिहासः, स्यात् = भवेत्, स एव

Loading

Шукра нити 52 Читать дальше »

Шукра нити 41

स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः ।सवनाद्यैश्च सा शिक्षा वर्णानां पाठशिक्षणात् ॥ ४१ ॥ अन्वयः—यच्च स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः सवनाद्यैः वर्णानां पाठशिक्षणात्सा शिक्षा ॥ ४१ ॥ व्याख्या—यच्च, स्वरतः= उदात्तानुदात्तादिभेदेन, कालतः = समयानुसारेण, स्थानात् = कण्ठ्यताल्वादिप्रदेशात्, प्रयत्नानुप्रदानतः = प्रयत्नसहकारेण, सवनाद्यैः= यज्ञस्नानोत्पत्यादिभिः, वर्णानाम् = अक्षराणाम्, पाठस्य = वाचनस्य, शिक्षणम् = पाठनम्, सा = उक्ता, शिक्षा = पूर्ववर्णितसन्दर्भः शिक्षाग्रथः इति

Loading

Шукра нити 41 Читать дальше »

Шукра нити 40

विविधोपास्यमन्त्राणां प्रयोगाः सुविभेदतः । कथिताः सोपसंहारास्तद्धर्मनियमैश्च षट् । अथर्वणां चोपवेदस्तन्त्ररूपः स एव हि ॥ ४० ॥ अन्वयः—यत्र विविधोपास्यमन्त्राणां सोपसंहाराः षट् प्रयोगाः धर्मनियमैः सह सुविभेदतः कथिताः, स एव अथर्वणाम् उपवेदः तन्त्रस्वरूपः एव हि ॥ ४० ॥ व्याख्या—यत्र, विविधानाम् = अनेकानाम्, उपास्यानाम् = आराध्यानाम्, मन्त्राणाम्= वेदवाक्यानाम्, सोपसंहाराः – उपसंहारेण = पर्यवसानेन सहिताः षट् प्रयोगाः = षट् तान्त्रिकोपचाराः,

Loading

Шукра нити 40 Читать дальше »

Шукра нити 39

स्वरैरुदात्तादिधर्मैस्तन्न्रीकण्ठोत्थितैः सदा ।सतालैर्गानविज्ञानं गान्धर्वो वेद एव सः ।। ३९ ।। अन्वयः—येन उदात्तादिधर्मैः तथा तन्त्रीकण्ठोत्थितैः सतालैः सदा गानविज्ञानं, स एव गान्धर्वो वेद इति ॥ ३९ ॥ व्याख्या–येन = वेदेन, उदात्तादिधर्मैः = उदात्तानुदात्तस्वरितस्वरूपैः, तथा तन्त्रीकण्ठोत्थितैः वीणागलोत्पन्नैः निषादादिभिः सप्तभिः स्वरैः, सतालैः = सङ्गीते कालक्रियासहितैः गानविज्ञानम् = गीतविज्ञानम्, भवति, सः = असौ, सदा = सर्वदा, गान्धर्ववेदः सामवेदस्योपवेदः इति ज्ञातव्यः

Loading

Шукра нити 39 Читать дальше »

Шукра нити 38

युद्धशस्त्रास्त्रव्यूहादिरचनाकुशलो भवेत् ।यजुर्वेदोपवेदोऽयं धनुर्वेदस्तु येन सः ॥ ३८ ॥ अन्वयः–येन युद्धशस्त्रास्त्रव्यूहादिरचनाकुशलो भवेत्, सः अयं यजुर्वेदोपवेदः धनुर्वेदोभवति ॥ ३८ ॥ व्याख्या— येन = ज्ञानेन, युद्धेषु = समरेषु, शस्त्रेषु = प्रहरणेषु, अस्त्रेषु = आयुधेषु, व्यूहादि = सैन्यादि, रचनासु = विन्यासेषु, च, कुशलः = दक्षः, भवेत् = स्यात्, यजुर्वेदस्य = यजुः श्रुतेः, उपवेदः= प्रधानवेदातिरिक्तगौणवेदः, धनुर्वेदः = धनुर्विद्यानिरूपकशास्त्रम्, इति

Loading

Шукра нити 38 Читать дальше »

Шукра нити 37

विन्दत्यायुर्वेत्ति सम्यगाकृत्यौषधिहेतुतः ।यस्मिन्नृग्वेदोपवेदः स चायुर्वेदसंज्ञकः ॥ ३७ ॥ अन्वयः—यस्मिन् आयुः विन्दति आकृत्या औषधिहेतुतः सम्यक् वेत्ति, सः ऋग्वेदोपवेदः आयुर्वेदसंज्ञकः ॥ ३७ ॥ व्याख्या—यस्मिन् = विदिते भागे, तदनुष्ठानात् आयुः = दीर्घजीवनम् विन्दति = प्राप्नुवति यस्मिंश्च, आकृत्या = रोगाणां स्वरूपज्ञानेन, औषधिहेतुतः = चिकित्साविज्ञानेन, हेतुतः= कारणेन, आयुः= जीवनम्, वेत्ति = जानाति, रोगाणामिति भावः, सः = संहिताभागः, ऋग्वेदस्योपवेदः, आयुर्वेदसंज्ञकः =

Loading

Шукра нити 37 Читать дальше »

Шукра нити 36

अथर्वाङ्गिरसो नाम ह्यपास्योपासनात्मकः ।इति वेदचतुष्कन्तु ह्यद्दिष्टञ्च समासतः || ३६ || अन्वयः—उपास्योपासनात्मकः अथर्वाङ्गिरसः नाम । इति वेदचतुष्कं समासतः हि उद्दिष्टम् ॥ ३६ ॥व्याख्या—उपास्यानाम् = उपासनीयानां देवानाम्, उपासनात्मकः= आराधनात्मको वेद- भागः, अथर्वाङ्गिरसः= अथर्ववेदः इति नाम्ना ख्यातः । इति = अनेन प्रकारेण, वेदचतुष्कम् = चत्वारो वेदाः, समासतः= सङ्क्षेपेण, उद्दिष्टम् = कथितम् ॥३६॥ हिन्दी—वेद के जिस भाग में उपासनीय

Loading

Шукра нити 36 Читать дальше »

Чанакья нити 17.14

परोपकरणं येषां जागर्ति हृदये सताम् ।नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ॥ जिसमे सभी जीवो के प्रति परोपकार की भावना है वह सभी संकटों पर मात करता है और उसे हर कदम पर सभी प्रकार की सम्पन्नता प्राप्त होती है. Тот, у кого есть чувство сочувствия ко всем живым существам (परोपकार), тот преодолевает все трудности

Loading

Чанакья нити 17.14 Читать дальше »

Прокрутить вверх